आचार्यवराहमिहिरस्य संक्षिप्तपरिचयः

यह लेख भारतीय ज्योतिर्विज्ञान अनुसंधान केंद्र, सहारनपुर में ४८ आचार्य वाराहमिहिर समारोह के शुभ अवसर पर भारतीय विद्वान् डा॰ के॰वी॰शर्मा के द्वारा पूर्व प्रस्तुत भाषण का संस्कृत रूपान्तर है, जो २७ नवम्बर, १९७९ ई॰ को रामतीर्थ सभाङ्गम् सहारनपुर में आयोजित सातवें वराहमिहिर समारोह में प्रस्तावित था। इसमें परिस्थिति और प्रसंग के अनुसार कुछ बातें दूसरे शब्दों में कही या कुछ जोड़ी गयी हैं। लेख का उद्देश्य है आचार्य वराहमिहिर का रूपरेखा परिचय और साथ ही साथ मौलिक महत्त्वपूर्ण बातों पर ध्यान आकर्षित करना।

फ़िलिप रुचिंस्की

 

यच्छास्त्रं सविता चकार विपुलैः स्कन्दैस्त्रिभिर्ज्योतिषं
तस्योच्छित्तिभयात्पुनः कलियुगे संसृत्य यो भूतलम् ।
भूयः स्वल्पतरं वराहमिहिरव्याजेन सर्वं व्यधाद्
इत्थं यं प्रवदन्ति मोक्षकुशलस्तस्मै नमो भास्वते॥

(बृहत्संहिताविवृति, मंगलाचरणश्लोक) 

वेदस्य निर्मलं चक्षुर्ज्योतिश्शास्त्रमकल्मषम्। विनैतदखिलं श्रौतं स्मार्तं कर्म न सिद्ध्यतीति लगधाचार्येणोक्तमेव। षण्णां वेदाङ्गानां मध्ये ज्यौतिषस्याग्रिमं स्थानम्। यथा हि -

यथा शिखा मयूराणां नागानां मणयो यथा।
तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्धनि स्थितम्॥ 

ज्योतिःशास्त्रस्य प्रमुखप्रवक्तृषु अन्यतम आसीदनेकग्रन्थप्रणेता आदित्यदासतनयः सूर्यप्रसादलब्धविभवो अवन्त्यां प्रथितयशाः वराहमिहिराचार्यः। काव्ये कालिदासः, नाट्ये भरतः, वैद्ये चरक इतिवद् गणितहोरासंहिताभिर्विभक्तस्य त्रिस्कनधात्मकस्य ज्योतिःशास्त्रस्य ज्योतिःशास्त्रस्य विशारदो वराहमिहिरः। 

आचार्यवराहमिहिरविषये अतिवक्तव्यमस्ति किन्त्वत्र केवलं कतिपयतथ्यानि मयोपलक्ष्यन्ते। यथोक्तं मया ज्योतिःशास्त्रस्य त्रैविध्यम् - गणितं होरा संहिता चेति विभागात्। शास्त्रेऽस्मिन्ननेकशतानि आसीत् ज्योतिःशास्त्रविशारदानां ग्रन्थकाराणाम् । तेषु आर्यभट्ट-ब्रह्मगुप्त-लल्लप्रभृतयः केवलं गणितस्कन्धविशारदाः। अन्ये कल्याणवर्म-दिवाकर-नीलकञ्ठदैवज्ञप्रभृतयः होरास्कन्धमात्राविशारदाः। केचिच्चान्ये द्वित्राः स्कन्धद्वये सिद्धिं गताः। परं त्रिष्वपि स्कन्धेषु संपूर्णज्योतिःशास्त्रेषु आधारक्रन्थप्रणेता केवलमाचार्यो वराहमिहिर इति वैशिष्ट्यम्। अस्य कृतिषु पञ्चसिद्धान्तिका नाम गणितग्रन्थः। होरास्कन्धे वराहमिहिरेण बृहज्जातकं, लघुजातकं, बृहद्विवाहपटलं स्वल्पविवाहपटलं चेति ग्रन्थचतुष्कं निर्मितम्। संहितास्कन्धे यावद्बहवो ग्रन्थास्तेन विनिर्मिताः, बृहत्संहिता, समाससंहिता, वटकणिका, बृहद्यात्रा, योगयात्रा, स्वल्पयात्रादयः। एतेषु बृहत्संहिता विश्वप्रसिद्धतरा भारतीयविज्ञानस्य विश्वकोषः। यस्य पारसी-अरबी-यूरोपीयादिभाषासु अनुवादा चिरकालादपप्युपलभ्यन्ते।

वाराहमिहिरस्य वैशिष्ट्यमस्ति यत्तेन संवत्प्रवर्तकस्य विक्रमादित्यस्य संरक्षणे ग्रहाणां नक्षत्राणां च वेदर्थं विशाला वेधशाला निर्मिता या मिहिरवल्लीति लोकप्रसिद्धा। तस्यां मध्ये लोकहिताय भूकम्पप्रवर्षणं, शश्यः, उल्कपातः, समस्किलकः, ग्रहण, धूमकेतुः वृक्षायुर्वेदः, वनस्पतिविज्ञानमित्यादिविज्ञानानां शोधनं उपयन्त्रप्रयोगश्चासीत्। मध्ये च मेरोः, पृथिव्याः सूर्यस्य च यन्त्राः स्थापिताः। तेषु च मेरुयन्त्रः वर्तमानेनपि विद्यते, यस्य नाम उत्तुंगमेरुयन्त्रः। देशविदेशाद्दूरादेव तत्र विदुषामागमनं आसीत्। अद्यत्वे क़ुत्ब मनार इति तस्य लोके प्रसिद्धिः।

अपरं च वराहमिहिरस्य वैशिष्ट्यं यद्भारतीयेतराण्यपि शास्त्राणि साधु चेत्तदा लोकोपकरणार्थं स्वीकारयोग्यानि सन्तीति तस्योपदेशः। यवना म्लेच्छा इति तथापि ज्योतिःशास्त्रं यदि ते सम्यगधीतवन्तः तर्हि ते पूजनीयाः। यत्किमपि शास्त्रेषु सत्यमस्ति तत्स्वीकार्यमिति तस्योपदेशतात्पर्यम्, तथा च तेऽपि यवनाः भारतीयज्योतिःशास्त्रं सत्यमिति स्वीकृतवन्तः। यथा -

ग्रन्थतश्चार्थतश्चैतत्कृत्स्नं जानाति यो द्विजः।
अग्रभुक्स भवेच्छ्राद्धे पूजितः पंक्तिपावनः ॥
म्लेच्छा हि यवनास्तेषु सम्यक्शास्त्रमिदं स्थितम् ।
ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविद्द्विजः ॥ (बृहत्संहिता २।३१-३२,३४।)

देशविदेशनिरपेक्षसत्यासत्यग्राह्याग्राह्यप्रविवेकः तस्मिन्नेव ज्ञानीपुरुषे वराहमिहिरे आसीदिति नास्ति संदेहः।

वराहमिहिरविषये अन्यदपि बहु वक्तुं युज्यते, तथापि विस्तारभयादधिकं न मया निरूपयुष्यते। पूज्यवरराहमिहिरस्य समादरणार्थमवसरो मे लब्धः, तत्कृते भारतीयज्योतिर्विज्ञानानुसंधानसंस्थानप्राणान् परमपूज्यश्री आचार्यकेदारनाथप्रभाकारमहोदयान् प्रति धन्यवादसहस्रान्व्याहार्य भाषणमुपसंहरामीति।

मिहिरं वराहमिहिरं वन्दे संदेहभेदिनं जगताम् ।
ज्योतिश्चक्रविभावनहेतुं जगदेकचक्षुरक्षुद्रम् ॥

सहारनपुर २०१६

Dział: