यूरोपीयसाहित्ये पञ्चतन्त्रस्य प्रभावः

यूरोपीयसाहित्ये भारतीयसंस्कृतसाहित्यस्य प्रभावो विद्यते, परन्तु १९ शताब्देः पूर्वं मूलग्रन्थानामप्राप्तिकारणादनूदितग्रन्थमध्यमेन भारतीयरचनान्यागच्छन्ति स्म। अत्र विशेषतः अतिप्रसिद्धग्रन्थविषये पञ्चतन्त्रविषये लेखितुमिच्छामि। पञ्चतन्त्रविषये सर्वे भारतीयजना जानन्ति यत्तस्य स्वरूपं किं, तस्य शीक्षा का, कथारचनाशैली कीदृशी अतस्तद्विषये चर्चास्मिन्लेखे व्यर्था।

पञ्चतन्त्रस्य रचना विषये यतोहि विदुषां मतभेदोऽस्ति अतो विवेचनं न करिष्यामि, परन्तु मन्यते यन्न्यूनातिन्यूनं सहस्रद्वयवर्षपूर्वं रचना बभूव। डॉ० हेर्तेल अनुसारेण तस्य रचना ई०पूर्वं २०० तमे वर्षे काश्मीरे बभूव1। परन्तु प्रसिद्धमतानुसरेण तस्य रचयिता दक्षीणभारतीय श्रीविष्णुशर्मा इति। सम्पूर्णभारतीयज्ञानविज्ञानप्रभावक्षेत्रे स्वस्वरूपे तथा "बृहत्कथा" पैशाचीभाषायां, कथासरित्सागरः, हितोपदेशादी सादृशशैली ग्रन्थैः प्रसिद्धः बभूव।

पञ्चतन्त्रो नीतिशासत्रस्य कथाशैलीकथासंग्रहात्मको ग्रन्थोऽस्ति। तस्य कथानां पात्राणि मानवाः बहुधा च श्ृगालकाकादिजन्तवः सन्ति। ते जन्तवो भाषणे समर्थाः मानवसगुणदुर्गुणयुक्ता भवन्ति। कथा नातिदीर्घा रोचकाश्च वर्तन्ते। तेषु धर्मार्थकामसदाचारराजनीतिव्यवहारविषयेषु रोचकरूपेण उपदेशात्मकाः कथा रचिताः। गद्यमध्ये श्लोकसमवेशेन धर्मस्य अन्येषाञ्च विषयानां प्रस्तुतिः स्मरणे सरला आनन्ददायिनी च ।

पञ्चतन्त्रे पञ्चप्रकरणानि सन्ति - मित्रभेदः मित्रसम्प्राप्तिः, काकोलूकीय, लब्धप्रणाशः, अपरीक्षितकारकश्चेति।

एषा शैली भारतदेशे एवासीत्। कालक्रमे पञ्चतन्त्रो बहुषु स्थानेषु प्रसिद्धो बभूव। मध्यएशियादेशेषु पञ्चतन्त्रस्य प्रभावो दृश्यते स्म। फार्सी देशप्रचलितापाह्लवी भाषायां प्रथमोऽनुवादः सन् ५७० Borzuya2 (برزویه پزشک ) द्वारा कृतः। तस्यानुवाद इदानीं स्वमूलप्रतौ न प्राप्यते परन्तु अस्यानुवादो अरबी भाषायां Abn al-Muqaffa (ابن المقفع)3 (मृत्युः सन् 756) द्वारा कृतः। एष अनुवादः Kalila wa Dimnah, The Fabless od Bitpai आदिनामभि प्रचलितः। केषुचित यूरोपीयभाषासु Pilpai नाम्नाख्यातः Baidava नाम्ना च । अनुवाद एकस्यां कथायां कालील एवं दीम्नाह द्वौ शृगालौ आस्ताम्। तयोः नाम्ना सम्पूर्णसंग्रहस्य नाम कृतम्। अरबगद्य-साहित्यस्याधारभूतो मन्यते। एषोनुवादो अरबी जनानं कृते अनुकूलितः कृतः, साक्षादनुवादो नास्ति। मध्यएशियादेशेभ्यः संस्कृतिरपि तासु कथासु स्वप्रभावं सयोजितवती।

११-१३ शतब्दौ बग्दाद नगरे ज्ञानविज्ञानस्य महत्वपूर्णं केन्द्रमासीद्ययस्मिन् भारतदेशस्य विद्वांसः, यूनानादियूरोपीयदेशानां विद्वांसस्तथा मध्यएशियादेशानां विद्वांस आगच्छन्ति स्म4। तत्र सर्वेषां धर्माणां, विज्ञानानां चध्ययनं भवति स्म। तत्र कालीफ़ हारुन अल रशीद (Harun al-Rashid, هَارُون الرَشِيد‎‎, ७८६–८०९) "ज्ञानस्य गृहम्" (ज्ञानालायं ?) (Bajt al-Hikma - بيت الحكمة ) 5 संस्थापितवान् यत्र देशविदेशेभ्यो विद्वांसः कार्यं कुर्वन्ति स्म। तेष्वनुवादका आसन् ये विभिन्नभाषास्वनुवादं कुर्वन्ति स्म। तत्रापि चतुर्लक्षग्रन्था संगृहीता आसन्। तत्रवसद्भिर्विद्वद्भिरनेकानि भारतीयविद्याविषये कार्याण्यनुवादाश्च कृताः। ततः सम्पूर्णे यूरोपमहद्वीपे भारतीयज्ञानं प्रसारितम्। १७ शताब्देः पूर्वं ग्रीक, लैटिन, स्पेनिश, इतालवी, जर्मन, पुराना स्लावोनिक, चेक, अंग्रेजी आदी भाषासु चानुवादो जातः। अधो विभिन्नभाषास्वनुवादसूचीं दर्शयामि।

- चीनभाषायां - "अवादानास्" नाम्ना
- पारसीभाषायां - ९१४ (न प्राप्यते) रुदेगी द्वारा
- सिन्गलेसी भाषायां - १३२०, १४१५
- इट्ली भाषायां - १५४८ Agnolo Firenzuola, La prima veste de' discorsi degli animali di Agnolo Firenzuola. In: I Lucidi di M. Agnolo Firenzuola fiorentino. Firenze, appresso i Giunti, 1548, Anton Francesco Doni, La moral filosophia del Doni 1552)
- आंग्ला(अग्रेजी)भाषायां १५७० Fabless od Bitpai -The Morall Philosophie of Doni नाम्ना Sir Thomas North महोदयेन कृतः।
- स्पनीश भाषायां - १६५४-५८ Espojo Vibraturi द्वारा - "Espejo Politico"

- रौमक(लेटीन)भाषायां - १६६६ परोसीनुस महोदयेना
- फ़्रांसीसीभाषायां - १६९८ Pablees de Pilpay
- स्वीडेन भाषायां - १७४५
- पोल्सकीय(पोलिश)भाषायां - १८१९
- मालाई भाषायां - अल्कबीर महोदयेन कृतः १८७१
- जार्मनी भाषायां Gustav Bickell "Kalilag und Damnag" (Leipzig, १८७६),

एषा सूची अतीव संक्षेपेणास्ति, यतो हि अधुनिककाले बहवोनुवादा विभिन्नभाषासु कृताः क्रियन्ते च। १६ शताब्दौ यूरोपीयाः कवयः सादृशशैल्या स्वकथलेखनं कर्तुमारब्धवन्तः। फ्रासदेशस्य महाकावि जीन डो ला फांतेन (La Fontaine) (८ जुलाई १६२१ - १३ अप्रैल १६९५) कथारचितवान् यासु या कथाः पञ्चतन्त्रस्य रूपान्तरमेवेति स्पष्टतः दृश्यते। परन्तु तस्य कथाश्छन्दोबद्धा यमकालंकारप्रचुराश्च वर्तन्ते। द्वितीय कथानं संग्रहे तेन स्वयं लिखितं यद् "This is a second book of fables that I present to the public... I have to acknowledge that the greatest part is inspired from Pilpay, an Indian Sage" । तेन अनूदिताः कथाः - Le Cormoran, les Poissons et l'Écrevisse ; पञ्चतन्त्रम् (, ), Les Deux Aigles, la Tortue et le Renard ; पञ्चतन्त्रम् (, २५), Le Brahmane, le Crocodile, l'Arbre, la Vache et le Renard ; पञ्चतन्त्रम् (, ), Le Brahmane aux vains projets ; पञ्चतन्त्रम् (,)। इत्यादि।

अत्र दृश्यये यत्कथा युरोपगमनकाले स्वनाम परिवर्तितवन्तः। ला फांतेनकवेरनुवादो बहुषु युरोपीयभाषासु कृतः। विशेषतो वर्णनीयमस्ति यत् तस्य अनुवादः पोल्स्का(पौलैण्ड)देशस्य मकाकविः आदम् मित्स्क्येविच् (Adam Mickiewicz 24 Dec. 1798 – 26 Nov. 1855) छन्दोबद्धरूपेणातीवसुन्दररीत्याकरोत्। स अपि एतया रीत्या बहूनि कवितान्यअरचयत्। इदानीं पोल्स्कादेशे सर्वेषु विद्यालयेषु तेनैव कविना पञ्चतन्त्राधरेण रचितकथाः पाठ्यन्ते। भारतीयकथानुसारेण रचनाः - Wesz i Pchła, (मन्दविसर्पिणीनामयूकाकथा १.९) आदयः सन्ति।

अन्येषु पोलस्कादेशस्य प्रसिद्धकविषु इग्नात्सि क्रशीत्स्कि (Ignacy Krasicki ३.०२.१७३५ - १४.०३.१८०१) आसीत्। तेन - Kruk i lis (काकशृगालश्च), Czapla Ryby i rak (बककुलीरककथा १.७) Owce i Wilk, (मेषाः वृकश्च) आदयः लिखिताः।

वनरशृगालादीना पशूनां पात्ररूपेण कथारचना प्रत्येककथायां च कश्चिदु पदेशो भवति। एषा शैली यूरोपमहाद्वीपे प्रचलिता जाता। तस्याधारेण बहवः कवयः स्वकीयाः कथाः लेखितुमारब्धवन्तः ये तत्ततत्कालसमाजस्य कृते अनुकूला आसन्। ब्राह्मणस्थानेषु पादरी अथवा विद्वान् अभवत् कदाचिच्च भिन्नपशुः पूर्वपशोः स्थाने आगतः। परन्तु मूलभूतं यदुद्देश्यं शिक्षेत्यासीत् तदवश्यं सर्वासु रचनासु प्राप्यते।

एतद् संस्कृतस्य योगदानं विश्वसाहित्यस्य कृते कदापि न विस्मरणीयम्। 

स्कर्बीमीर ष्टेंस्नि रुचिंस्कि
(योगानन्द शास्त्री)

२०१७, सं०सं०वि०वि० वाराणसी

1Hertel, Johannes (1906), Das Südliche Pañcatantra [The Southern Panchatantra], Leipzig: B. G. Teubner

2François de Blois (1990), Burzōy's voyage to India and the origin of the book of Kalīlah wa Dimnah, Routledge, ISBN 978-0-947593-06-3

3Said Amir Arjomand, "`Abd Allah Ibn al-Muqaffa` and the `Abbasid Revolution," Iranian Studies, 27:33 (1994).

4Adam Bieniek: Starożytność w myśli arabskiej. Kraków: 2003 Poland. अपरं - Josef W. Meri: Medieval Islamic Civilization: An Encyclopedia. Routledge, 2005.

5 Al-Khalili, Jim (2011), The House of Wisdom: How Arabic Science Saved Ancient Knowledge and Gave Us the Renaissance, New York: Penguin Press, ISBN 9781594202797

 

Dział: